श्रीकृष्णोउद्धवसंवादः

भक्ति- ज्ञान - कर्म- ध्यान- योग- धारणादिसिद्धान्तानां सर्वस्वसारः कृष्णोद्धवसंवाद एव । श्रीमद्भागवतस्यैकादशे स्कन्धे कृष्णोद्धवयोर्मध्ये सम्पन्नेयमन्तिमा चर्चास्ति । प्रत्येकेशां साधकानामनेकेषां तर्काणां सन्देहानाञ्चोत्तरमत्र सहजतया लभ्यते ।

धर्मो मद्भक्तिकृत् प्रोक्तो ज्ञानं चैकात्म्यदर्शनम् ।
गुणेष्वसङ्गो वैराग्यमैश्वर्यं चाणिमादय: ।।
(श्रीमद्भागवत ११/१९/२७ )

dharmo madbhaktikṛt prokto jñānaṃ caikātmyadarśanam ।
guṇeṣvasaṅgo vairāgyamaiśvaryaṃ cāṇimādaya: ।।
(śrīmadbhāgavata 11/19/27 )

https://www.vaidikyatra.org/wp-content/uploads/2019/03/krishna.jpg

कृष्णोद्धवयोः संवाद ईश्वरजीवयोः संवाद एव मन्तव्यः। यस्मिन्नुद्धवो जीवात्मा श्रीकृष्णस्तु परमात्मा ।

उद्धवः त्रिभ्यो गुरुभ्योर्ज्ञानमग्रहीत् प्रथमं देवगुरोः वृहस्पतेः,द्वितीयम् ब्रजगोपीभ्यः,तृतीयं भगवतः श्रीकृष्णात् । त्रयेषु देवगुरुर्वृहस्पतिरुद्धवस्य । शिक्षागुरुर्दीक्षागुरु-श्चासीत्  अवशिष्टौ गोपीकृष्णौ शिक्षागुरू एव । वेदस्य त्रयः सिद्धान्ताः भवन्ति यान् वेदत्रयीति कथ्यते । ते च ज्ञानं भक्तिः कर्म चेति

गुरुबिनु होइ कि ज्ञान” । सिद्धान्तानुसारं देवगुरौर्वृहस्पते उद्धवः ज्ञानं लब्धवान् । गोपिभ्यो आतुर्यानुप्राणिता भक्तिः, श्रीकृष्णात् सर्वाषां शिक्षाणां पुनरावृत्तिर्जाता । अन्ततः कर्मणः शिक्षा चाधिगता । ततो भगवान् श्रीकृष्णः वदरीकाश्रमं गन्तुमुद्धवमादिशति ।  वदरीकाश्रमो भरतवर्षे भगवच्चेतनास्फ़ुरणस्य केद्रविन्दुरस्ति । 

 

 

अग्रिम आरक्षण

पूजा एवं कथा की अग्रिम आरक्षण करने तथा कल्याणकारी सेवा प्रकल्पों में सहभाग्यता हेतु संपर्क करें ।

    Vaidik Sutra