” ज्ञान- कर्मयोः समन्वयो भाव्यः “

” ज्ञान- कर्मयोः समन्वयो भाव्यः “

कस्यापि धार्मिक ग्रन्थस्य, वेदमन्त्रस्य पाठ्यपुस्तकानां वा कण्ठस्थीकरणेन वास्तविको लाभो न मिलति , तस्तुतः पुस्तकेषु लिखितानां नियमानामनुपालनं विधेयम् (ऋगवेद १-२२-१९)

धर्मराजस्य युधिष्ठिरस्य विद्यार्थीजीवनस्य कथेयम् :—एकदाऽचार्यः सर्वान् छात्रानशिक्षयत् ” सत्यं वद, धर्मं चर , स्वाध्यायान्मा प्रमद ” इति । इमानि वाक्यानि कण्ठस्थीकरणाय चादिष्टवान् । अपरेद्युः सर्वे छात्रास्तानि वाक्यानि श्रावयामासुः, परं युधिष्ठिरोSकथयत् ” मन्त्रा न कण्ठस्थी भूताः ” इति । एवं चतुः पञ्चदिनानि व्यतीतानि । तत एकदा युधिष्ठिरः स्वयमाचार्यमुक्तवान् ” यदधुनायं मन्त्रः कण्ठस्थीभूतः ” इति । सर्वे आश्चर्यचकिता जाता यदस्य ह्रस्वस्य मन्त्रस्य कण्ठस्थीकरण एतानि दिनानि कथं व्यतीतानीति ? पृष्टे सति युधिष्ठिरोऽकथयद् यदिदं मन्त्रमात्मसात्कर्तुमेतानि दिनानि व्यतीतानि । इदानीं मयैतेषां मन्त्राणामर्थं जीवने परिपालयता मन्त्राः स्वायत्तीकृताः । अयं भारतीयसंस्कृतेः सारोऽस्ति यत् कस्यापि मन्त्रस्य, ग्रन्थस्य, पाठस्य वा कण्ठस्थीकरणेन कार्यं न चलति , तमात्मसात्कृत्वा व्यवहारे, निभालनीयम् । मङ्गलमयैः श्रेयस्करैः कार्यैयल्लभ्यते तदेव यथार्थं ज्ञानम् । अहंकारं, वित्तशाठ्यं , आलस्यं चौर्यादिकं यच्छिक्षयति तन्न वास्तविकं ज्ञानं, प्रत्युत , ज्ञानाभाव एव ।

यदज्ञानमनु भावयति, विनम्रं करोति , तन्मयं करोति तदेव वास्तविकं ज्ञानम् । यज्जीवने नावतरति, जीवनस्य प्रत्येकं क्षेत्रं सुन्दरं , श्रेष्ठं, सात्विकञ्च न निर्माति , तत् ज्ञानं कथं भवति ?

अधुना प्रायशः स्थानेषु श्रेष्ठस्य ज्ञानस्योपहासो भवति । सत्यम्, अहिंसा, सरलता प्रायेण पुस्तकेषु व्याख्यानेषु नियन्त्रिताः सन्ति । व्यावहारिके जीवनेऽसत्यस्य हिंसाया श्चवलम्विनो जना एव सफ़लाः सन्ति । इदमसत्यं ज्ञानमेव मनुष्याणां दुःखस्य कारणम् । पाखण्डैर्मिध्याचारैश्च जनः स्वात्मानमेव वञ्चयति ।

जीवने यावज्ज्ञानकर्मयोगयोः समन्वयो न भवति तावदस्मान् व्यक्तिगते जीवने वास्तविकी सफ़लता , सुखं शान्तिश्च न मिलि श्यति । वेदपुराणादिसद्ग्रन्थानामध्ययनाद् यत् सद्ज्ञानं प्राप्यते तदस्माकमन्तःकरणे प्रविष्टं भूत्वास्माकमाचरणस्यांशः स्यात्, तदेव विद्याध्ययनस्य सार्थक्यम् । सद्ज्ञानात् स्वाचरणपरिष्करणमेव चरित्रनिर्माणमस्ति ।

Vaidik Sutra