किं खलु श्रीमद्भागवतम् ?

पुराणस्यार्थोऽस्ति यत् " पुरा +अपि नवम् "। पञ्चभिर्लक्षणैर्युक्तं पुराणमित्युच्यते । परं भागवतं न केवलं पुराणमपितु महापुराणमस्ति । यत् सर्गादिभिर्दशलक्षणैर्युक्तं पुराणसम्राट् चास्ति । इदं वस्तुतो गायत्र्या महाभाष्यमस्ति । यत्र व वृत्रासुरबधकथा विद्यते ।

निगमकल्पतरोर्गलितं फलं शुखमुखादमृतद्रवसंयुतम्।
पिबत भागवतं रसमालयं मुहुरहो रसिका भुवि भावुकाः।।
( श्रीमद्भागवत १/३ )

https://www.vaidikyatra.org/wp-content/uploads/2019/04/Shrimad_Bhagwat_Katha_image.jpg

यत्राधिक्षुत्र गायत्रीं वर्ण्यते धर्म विस्तर: ।
वृत्रासुर वधोपेतं तदवै भागवतं विदुः ।।

जीवनयापनस्याद्भुतां शैलीं कथयन् महापुराणमिदं वैष्णवानां मुकुटमणितुल्यं जातम् । इदं हि महापुराणं भगवतः श्रीकृष्णस्य शब्दविग्रहरूपं, आध्यात्मिकरस स्याकौकिकप्रपासमं, संतोषशून्याय जीवनाय शान्तिप्रदममृतं, अथवा नरमपिनारायणं कुर्वद्दिव्यचैतन्यमस्ति । अस्मिन् १२ द्वादशस्कन्धाः, ३३५ पञ्चत्रिन्शत्त्रिशतमध्यायाः, २८००० अष्टाविंशति सहस्राणि श्लोकाः सन्ति ।

इदं श्रीमद्भागवतं भागवतं वा केवलं कथ्यते । भक्ति – ज्ञान – वैराग्यानामयं महान् ग्रन्थः । श्रीमद्भागवते महापुराणे भगवतो नारायणस्यावताराणां वर्णनमस्ति । नैमिषारण्ये शौनकादिऋषीणां प्रर्थनायां लोमहर्षणस्य पुत्र उग्रश्रवाख्यः सूतोऽस्य पुराणस्य माध्य्मेन् श्रीकृष्णस्य चतुर्विंशती-नामवताराणां कथामकथयत् । महापुराणेऽस्मिन् श्रीकृष्णस्यैश्वर्यमलौकिकंरूपञ्च वर्णितम् ।

 

 

श्रीमद्भागवतमस्मभ्यं किं ददाति ?

अस्य पठनाच्छ्रवनाच्च भोगैश्र्वर्यौ सुलभौ भवतः। किं बहुना, भागवताद् भगवतः श्रीकृष्णस्य चरणारविन्दयोरविचला भक्तिश्च लभ्यते ।मनसः शुद्धयेऽस्मादतिरिक्तं नास्ति साधनम् । यथा हि सिंहगर्नं श्रुत्वा वृकाः पलायन्ते तथा भागवतस्य पाठं श्रुत्वा कलियुगस्य समस्ता दोषा नश्यन्ति । भागवतस्य श्रवणादेव हरिश्चेत्ते विराजिते ।

 

श्रीकृष्ण और श्रीमद्भागवत का एकत्व

एकदा श्रीकृष्णसरवा परमभक्त उद्धवः श्रीकृष्णं पृच्छति यत् " भोःकृष्ण ! यदा भवान् सदेहः स्वधाम गमिष्यति तदा भवद्भक्ता पृथिव्यां कथं स्थाष्यन्ति ? ते कस्योपासनां करिष्यन्ति"? इति । भगवान्नुत्तरति " निर्गुणोपासनां करिष्यन्ति " इति । उद्धवो निवेदयति " निर्गुणोपासनायां काठिन्यं वर्तते । भगवन् ! अस्मिन् विषये विचार्यताम् " इति ।

स्वधामगमनसमय उद्धवस्य कथनं स्मृत्वा स्वदेहस्य दिव्यं तेजः श्रीमद्भागवते प्रवेश्य तत्रैवान्तर्हितो भगवान् । तदारभ्य श्रीमद्भागवतं श्रीकृष्णस्य विग्रहमेव मन्यते । उक्तञ्च :-स्वकीयं यद्भवेत्तेजस्तच्च भागवतेऽदधात् । तिरोधाय प्रविष्टोऽयं श्रीमद्भागवतार्णवम् ।। ( पद्मपुराणान्तर्गतं भागवतमहात्म्यम् ३-६१ )

mahapuran

श्री भागवत भगवान् तुम, श्रीकृष्ण के अवतार हो ।
श्रुति-वेदशास्त्र-पुराण तरु के, सुखद फल रस सार हो ।
जो भगवत नित पढ़ै, उसको ह्रदय भाव अपार हो ।
श्रीकृष्ण के दर्शन मिलें, अरु भाव से बेडा पार हो ।

कथा सप्ताह क्रम

नवीनतम वीडियो

अग्रिम आरक्षण

पूजा एवं कथा की अग्रिम आरक्षण करने तथा कल्याणकारी सेवा प्रकल्पों में सहभाग्यता हेतु संपर्क करें ।

    Vaidik Sutra