उद्देश्यं परिकल्पना च

मानवीय -जीवन -शैल्यां विलुप्तप्रायाणां , प्रचीनानां , वेद -शास्त्र -सम्मत -सनातन -वैदिक -संस्कृति -संस्काराणां पुनः स्थापनं , संरक्षणं सम्वर्धनञ्च " वैदिक -यात्राया "मुख्यमुद्देश्यमस्ति ।

एक मुचितत्पदं ,यथार्थ -लक्ष्यं प्रति । सनातन -संस्कारान् ,स्वसंस्कृतिं प्रति च ।।

https://www.vaidikyatra.org/wp-content/uploads/2019/04/Uddesh_Hindi_img_1.jpg

प्राचीनानां -सनातन -शास्त्र -सम्मत -संस्कृतीनां, संस्काराणाञ्चोपेक्षाया न केवलमस्माकं प्रयुक्तः समस्तं मानव -जीवनमधुना पशुतामनुगच्छ्न्नस्ति ।  यदा जीवनं मनोनुकूलं चलति तदा पशुता शास्त्रानुसारं प्रचलतां जनानां जीवेन पदे पदे मानवताया दर्शनं भवति ।  परम -पूज्याः करपात्रिणो महाभागाः प्रायेण कथयन्तिस्म यत् ।

मतयो यत्र गच्छन्ति तत्र गच्छन्ति वानराः ।
शास्त्राणि यत्र गच्छन्ति तत्र गच्छन्ति ते नराः ॥

श्रीमद्भगवद्द्गीतायां मनोनुकूलमचरन्तो जना असुराः प्रोक्ताः ।

प्रवृत्तिं च निवृत्तिं च जना न विदुरासुरा: । ( गीता १६/०७ )

सनातन वेद -शास्त्रादीनामनुशीलनं बिना जीवने मानवताया दर्शनमसम्भवमेव । पश्यत, विश्र्वस्य प्राचीनतमासु संस्कृतिषु वैदिक -रोमन-ग्रीक -युनानप्रभृतयःसंस्कृतयः समायान्ति ।  संपृति रोमन -ग्रीक -युनान संस्कृतयो विलुप्त -प्रयाजाताः । यत्र कुत्रचित कथञ्चिदवशिष्टाश्र्चेत्तासु पर्याप्तं परिवर्तनं जातम् । परं भारतीयानामार्याणां सनातन -वैदिक -संस्कृतिर्यथा वज्जीविता ,बहुभीरनुक्रीयमाणाः सर्वैः सादरं वन्द्यमाना च वर्तते । यतो हि वैदिक – सनातन संस्कृतिरेव मानव -समाजस्यात्मिकीमूर्जाम् , आत्म -चिन्तन -प्रवृत्तिम् , जीवन -धारां सहजां सरलाञ्च कर्तुं समर्थास्ति ।  अतः सूत -संहितायां स्वयं भगवान् पशुपतिः कथयति —

स्थापयध्वमिमं मार्गं प्रयत्नेनापि हे द्विजा: । स्थापिते वैदिके मार्गे सकलं सुस्थिरं भवेत् ॥
यश्च स्थापयितुं शक्तो नैव कुर्याद्विमोहित: । तस्य हन्ता न पापीयानिति वेदान्तनिर्णयः ॥
( सूतसंहिता )

सन्मार्ग एव लक्ष्यं प्रापयति । वैज्ञानिक दृष्ट्याSध्यात्मिक -दृष्ट्या च सनातन -वैदिक -मार्ग एव श्रेष्ठः , लोक -कल्याण -करः प्रकृत्यनुकूलश्र्चेति विविधैः शोध -ग्रैन्थैः पुनः पुनः प्रतिपादितम् । अत एवाधुनापि सनातन -वैदिक -पौराणिक -ग्रन्थनधिकृत्य जापाने, जर्मने ,अमेरिकायां ,लन्दने वैज्ञानिकानुसन्धान – विश्र्वकेन्द्रे नासायां मन्येठनेकेषु देशेषु नित्यमनुसन्धान – कार्याणि सम्पन्नानि संपाद्यमानानि च सन्ति । परं वेद -पुराण -शास्त्राणां सम्यग्ज्ञानं सद्गुरुं बिना लब्धुं न शक्यते चेद प्राप्त -ज्ञानस्य प्रयोगो विज्ञानं -विशिष्टं ज्ञानं वा कथं सम्भवति ?

बिनु गुरु होइ कि ग्यान ग्यान कि होइ विराग बिनु । गावहिं बेद पुरान सुख कि लहिअ हरि भगति बिनु ॥
कोउ विश्राम कि पाव तात सहज संतोष बिनु । चलै कि जल बिनु नाव कोटि जतन पचि पचि मरिअ ॥
( श्रीरामचरितमानस उ. का. ८९. सो )

वर्तमान -युगे महनीयं ब्रह्मविद्वरिष्ठं गुरुमुखमनाश्रित्यानाद्यपौरुषेय -वेद -पुरान -शास्त्राणां कपोल -कल्पितमर्थं कृत्वा स्थावतां जनानाम्मध्येs शास्त्रीयं बौधिक मातङ्कं प्रसारयितुं कुप्रसायः क्रियते ।

Vaidik Yatra

यदृच्छया श्रुतो मन्त्रश्छन्नेनाऽथ छलेन वा ।
पत्रेक्षितो वा व्यर्थः स्यात्प्रत्युतानर्थदो भवेत् ॥
(श्रुत प्रकाशिका )

ते हि विद्वन्मानिनः स्व्मतानुसारं शास्त्रेषु परिवर्तनस्यापराधिकं प्रयत्नं कुर्वन्तः शास्त्र -रूपिणं परमात्मानं हिनाङ्गं व्रिकृताङ्गञ्च कृत्वा स्वकीयं पाण्डित्यं प्रकरयन्ति । परम्परेयं निन्दनीया त्याज्या च ।

शास्त्रे न योजयेत्किञ्चिन्नकिञ्चित्खण्डयेन्नरः ।
हरेः शरीरवैकल्याज्जायते धर्मसंक्षयः ।।
(गोवंशमहिमामृतम्)

अत एवमार्ष -ग्रन्थानां वेद -शास्त्र -पुराणानां संरक्षणाय, संवर्धनाय च प्राकृतिक -वातावरणै सुसज्जिते, सुन्दरे, शान्त,एकान्ते, विशाल -भू -खण्डे, पुष्प -कलौषधवतौ वृक्षान् सम्वर्ध्य, तेषां वृक्षवलिनां समीपे, वातावरण -विकार -शून्ये, निर्मल -वायु -सञ्चार -पूते, प्राकृतिक -प्रकाश-प्रकाशिते, रमणीये क्षेत्रे, शान्तमध्ययनाध्यापनानुकूलं, ध्वनिप्रदूषणरहितं, चाकचक्यहीनं भव्यं गुरुकुलं निर्मातुं सुदृढा परिकल्पनास्ति ।  यस्मिन् गुरुकुले पञ्च-सहस्र -मिताश्र्छात्राः पठितुं शक्नुयुः । कुरुकुलं परितः कदम्वाम्र-निम्वादयो क्षायाप्रदा वृक्षाः पर्याप्ताः स्युः । एतेषां क्षायाया -मुपविश्य धर्मशास्त्र -व्याकरण -न्याय -मिमांसा -योग -वेदान्त -ज्योतिष -कर्मकाण्ड -आयुर्वेद -धनुर्वेद -गान्धर्ववेद -मन्त्रविद्या – रसायनशास्त्र -वनष्पतिशास्त्र -भूगर्भविद्या – खगोल-विद्या- राजनीति -अर्थ शास्त्रदिनांमध्यापनं प्रयोगञ्च कर्तुं पर्याप्तं स्थानं स्यात् ।

प्रस्तावित- गुरुकुल – सभागारस्या स्न्निकटे धनुर्वेद -योगविद्या -मन्त्रविद्या -रसायनशास्त्रा आयुर्वेदज्योतिषादिनां प्रखराम्यासिनां शोधकर्याथं विस्तृता प्रयोग -शालाचस्यात् । तद्दि गुरुकुलं वेद -पुराण -शास्त्रादीनां ध्वनितरङ्गादिविषये क्रियमाणाय शोध -कार्याय समुचितैरत्याधुनिकैरूपकरणैयुक्तं स्यात् । तथा च तत्रार्षग्रन्थेषु निरन्तरं शोधकार्याणि भवेयुः । येन तेषाम्महत्वम्मानवो ज्ञातुं शक्नुयात् । तच्च शास्त्रीयं ज्ञानमनुसरन् सः स्वकीयं जीवनं प्रसन्नतया सञ्चालनं कुर्यात् । तस्य समिप एकस्मिन् प्रकोष्ठे यज्ञशालायाः प्रबन्धः स्यात् । गुरुकुल -यज्ञशालयोमध्ये श्रीराधाकृष्ण- युगलविहारिणो भव्यं मन्दिरं स्यात् । उद्द्यानस्येकस्मिन् कोणे गौशाला ,प्राध्यापकानां निवासालयः ,तृतीयकोण आयुर्वेदास्यौषधालयश्र्च स्याद्यत्र निःशुल्कमौषधं प्राप्येत, चतुर्थे च कोणे छत्रानाङ्ग्कृते मल्लयुध्य-शिक्षायै दण्ड -मुद्गला दिभिर्व्या यामसाधनैः सुसज्जितं मृदुमृद्वा लुका युतं विस्तृतं क्रीडारङ्गनञ्च स्यात् ।

एवं तत्र गुरुकुल आध्यात्मिकताया आधुनिकताया श्र्चाद्भुतः सङ्गमः स्यात् । तत्र ह्यार्षपरम्परया वेद-शास्त्र -पुराणानां मूलार्थपूर्वकं तर्कसम्मतं ,निर्विवादं ,वैज्ञानिक -तथा परिपुष्टं यथार्थं ज्ञानार्जनं भवेत् । येना धुनिको -मानव -समाज आर्षग्रन्थानां महत्वं जानीयादय च सगौरवं निःसंकोचं जीवन -यात्रा कुर्वन् स्वकियञ्चरम लक्ष्यं भगवदनुग्राह्यञ्च प्राप्नुयात् । यतोहियः खलु प्राणी प्राप्ताधिकारोSपि वेदोक्तं नाचरति स ह्यज्ञोSजितेन्द्रियः सन् विकर्मण्यकर्मणि च सल्लग्नः पुनः पुनः भवाटवीं भ्रमन्न सफ़लतां मृत्युञ्चा धिगच्छतिः ।

नाचरेद्यस्तु वेदोक्तं स्वयमज्ञोऽजितेन्द्रियः ।
विकर्मणा ह्यधर्मेण मृत्योर्मृत्युमुपैति सः ॥
( श्रीमद्भागवत महापुराण )

संक्षेपे ये खल्वाधुनिक -परिवेषिणो जना संति ते वर्तमाने प्रचलिताङ्गल – भाषाया सह धरप्रवाहं संस्कृतंब्रुयुः । ससांस्कृतिकभूषा धौतवस्त्र -कञ्चुकोत्तरीयधारिणो जनाः सकलानां भाषाणां जननी भूतया सुरभारत्या सह लोकप्रचलितामाङ्गलभाषाञ्च धाराप्रवाहं वक्तुं पारयेयुः । एतेन प्रयासेण सर्वे भारतीया अधिकारिणो भूत्वा शास्त्राणां यथार्थं सिद्धान्तञ्च गुरुमुखेभ्यः श्रुत्वाधुनिक -भाषा -प्रयोग -माध्यमेन स्वकीयेन वेदसम्मताचरणेन च प्रतिजनं प्रेरयेयुः । तदा भारतवर्ष मिदमदुनापि वास्तविक -रूपेण पूर्ववद् जगद्गुरु -पदवीं प्राप्ष्यति । एवं शास्त्र -सम्मतामाचरणं कृत्वा समग्रं मानवीय -लक्षणञ्चाधिगम्य मनुवयो जीवनस्य चरमं लक्षञ्च लभेत् ।

एभिः संकायैः सहास्मिन् गुरुकुले छात्रावासः, ग्रन्थालयः, अध्यनकक्षाः, क्रीडाङ्गनम्, आचार्यनिवासः, गोशाला, संध्यसदनम्, यज्ञशालाः, अतिथिनिवासादयश्र्च स्युः । यस्मिन् परिसरे प्रविष्ट एव मनसिकी शारीरिकी शान्तिः स्वतः स्फ़ुरेत् । तथा चात्र द्विदेह -प्राणैकधारिणोः श्रीराधामाधवयुगलविहारिणः सुन्दरं मन्दिरञ्च स्या द्यत्रार्च नोपासनयाSध्यात्मिक्या ऊर्जायाः संचारः स्यात्तथा त्मोत्थानस्य मार्गश्र्च प्रसस्तो भवेत् ।  सम्भवत इदं भारतवर्षस्य प्रथमं मन्दिरमभविष्य द्यत्रद्विदेह – प्राणैक धारिणोः श्रीराधामाधवयोर्विग्रहौ स्तः । 

उद्येश्यमिदं परिकल्पना च श्रीयुगलविहारी -सर्व -कारस्य ,कृपया ,पूज्यानां गुरु -पितामहानां दिव्ये नाशीर्वादेन भगवतो विराट् -स्वरूपधारिणः ( भगवतां सर्वेषां ) सह भागितया शीघ्रं पूर्णतामेष्यति । तदा वेद – विग्रहवान् भगवानपि प्रसन्न्तया निःसंदेहं प्रफ़ुल्तामनु भविष्यति । तदा हि सनातन – धर्म ध्वजा न केवलं भारते वर्षे प्रत्युतः समस्ते विश्र्वस्मिन् प्रवहमाणा भविष्यति । तदा निश्चित मेवसनातनसंस्कृतेः संस्काराणाञ्च कृते नूतनो षोदयो भविष्यति ।

है उद्देश्य नहीं इस पथ का श्रान्त भवन में टिक जाना ।
किंतु पहुँचना उस मंजिल तक, जिसके आगे राह नहीं ॥

Vaidik Sutra