एक सूक्ष्म परिचय

कोटिब्रह्माण्डनायकस्य परब्रह्मणो लीलापुरुषोत्मस्य भगवतः श्रीकृष्णस्य परमपवित्रे क्रीडास्थले श्रीधाम्नि वृन्दावने ,सततं निवसतां ,आध्यात्मिकजगति सूर्यवद्देदीप्यमानानां ,प्रतिजनानां मानसपटले प्राप्तस्थानानां ,परमपूज्यानां भागवतभूषणानां ,पुरणाचार्याणां श्रीमतां श्रीनाथशास्त्रीणां यशस्विनः पौत्रशिष्याः, गोसेवाव्रतिनां डा. श्रीमतां कृष्णकुमारशर्मणामात्मजाः तथा च वात्सल्यस्य प्रतिमूर्तितुल्यायाः " प्रभुमातुः" मातामह्याः क्रोडे " कन्हैयाजी" इत्युपलब्धोपनामानः , स्वामिनः श्रीमतोऽखण्डानन्द -सरस्वतीमहभागात् प्राप्त -" प्रणवेति नामकरणसौभाग्याः , भागवत-किङ्कराः श्रीमाननुरागकृष्णशास्त्रिणः " कन्हैयाजी" भागवतकथाक्षेत्रे देदीप्यमाननक्षत्रतुल्याः सन्ति । 

धर्मो मद्भक्तिकृत् प्रोक्तो ज्ञानं चैकात्म्यर्शनम् ।
गुणेष्वसङ्गो वैराग्यमैश्वर्यचाणिमादयः ।।

(श्रीमद्भागवत ११/१९/२७ )

dharmo madbhaktikṛt prokto jñānaṃ caikātmyarśanam | guṇeṣvasaṅgo vairāgyamaiśvaryacāṇimādayaḥ || śrīmadbhāgavatam -11-14-27

https://www.vaidikyatra.org/wp-content/uploads/2019/04/Guruji_Hindi_img-1.png

भगवतां जन्म वसन्तपञ्चम्या अग्रिमे दिवसे षष्ठ्यां तिथौ १०-०२-१९८१ तमे ख्रीष्ठाब्दे मातुलगृहे ” राजनान्दग्रामेऽभूत् “। भवतामेकाग्रजा कोलकातायां स्वपरिवारेण सह वसति एकाजुना जयपुरे स्वश्वसुरालये निवसति ।  भवतां बाल्यावस्था सामान्यबालकेभ्यो भिन्ना चञ्चलतापरिपूर्णा चासीत् । सम्भवतः चपलराजस्य बालकृष्णस्य छायाऽऽसीत् अत एवाद्याप्यात्मीया जना भवन्तं ” कहैन्या ” इत्युपनाम्ना व्यवहरन्ति । 

भवतां प्राथमिकी शिक्षा वृन्दावने मथुरायां च संपन्ना । स्नातककक्षा बी .बी ए. आगराविश्वविद्यालयादुत्तिर्णा । 

देहलीतः `टाफ़िल ` इति शिक्षां प्राप्य भवता कैम्ब्रिजविश्वविद्यायात् एम .बी. ए . इति स्नातकोत्तरीया शिक्षाधिगता , परं ,पूज्यानां पितामहगुरूणामाज्ञया तमौपचारिकमध्यनं मध्ये परित्यज्य स्वकीयं समस्तं जीवनं पूर्णरूपेण भागवत -भगवतश्चरणयोरर्पितवान् । स्नातकोत्तरशिक्षायामवरोधान्वनसि किञ्चिन्नैराश्यञ्चागतम् । अतो भवतागराविश्वविद्यालयात् पी.जी.डी.सी.ए. इतस्य आफ़िसमैनेज्मेन्ट (कार्यालयव्यवस्थापन ) इति पाठ्यक्रमस्य परीक्षे प्रथमश्रेण्यामुत्तीर्णे ।  तथा च संपूर्णानन्द विश्वविद्यालय -वाराणसीतः शास्त्रीपरिक्षा प्रथमश्रेण्यामुत्तीर्णा । 

प्रबन्धनस्योच्चशिक्षया सुसज्जितेन भवता स्वसनातनसंस्कृतेर्मूलभूतस्य सुगूढदर्शनशास्त्रस्य ,श्रीमद्भागवतस्य चानुशीलनं संस्कृतस्याध्ययनमेव स्वजीवनस्य पाथेयं निर्मितम् । सूट -बूट- टाई प्रभृतीनां वेशभूषानां स्थाने धौतवस्त्रकञ्चुकादिभिः स्थानं गृहीतम् । भवान् मनोयोगेन श्रीभागवतस्य संस्कृतभाषायाश्र्चाध्ययने निमग्नो जातः । एवं  “मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम्” इत्युक्तिश्च चरितार्था जाता । 

Vaidik Yatra

रामायणस्य ,भगवद्गीतायाः उपनिषदां ,ब्रह्मसूत्रादीनामध्ययनावसरे प्रतिपदं पितामहगुरोर्दिग्दर्शनं मिलतिस्म ।  शास्त्रार्थस्य गूढं रहस्यं ज्ञातुं विदुषां , महापुरुषाणां न्यूनता नासीत् ।  पितामहरु पिणी ज्ञानगङ्गा गृह एव प्रवहमाणासीत् ।  केवलं तन्मयताया निष्ठायाः परिश्रमस्यैवावश्यकतासीत् । एवं भवता कियद्भिर्वर्षैरेव निर्मलेन ज्ञान -गङ्गाजलेनात्मानं क्लिन्नीकृतम ।  अतः परं तस्य प्राप्तज्ञानस्य परिष्कारस्य ,परीक्षणस्यानुभवस्य चावश्यकतासीत्  इमानि कार्याणि भवन्तोद्यापि कुर्वन्तो दृष्यन्ते ।  अद्यापि भवतामियं धारणास्तियत्  “स्वाध्यायान्माप्रमद” इति ।

विक्रामाब्दे २०६१ चैत्रनवरात्रिषु मौनोपवासेन सह गिरिराजगोवर्धनस्योपत्यकायां तस्यैव निःस्पृहभक्तस्य श्रीमतो गयाप्रसादमहाभागस्याध्यात्मिक विग्रह समक्षे , श्रीमद्भागवतमहापुरणस्य मूलसंस्कृतं वाचयित्वा ,परमपूज्यस्य ” काकाजी ” रामदासस्य सन्निधावाध्यात्मिकीमूर्जां प्राप्य ,ख्रीष्ठाब्दस्य २००४ तमस्य ८ अगस्तात् परमपूज्यानां स्वामिकार्ष्णिनां श्रीमतांगुरुशरणानन्दमहाभागानां शुभाशीर्वादछायायां श्रीमद्भागवतमहापुराणस्याष्टोत्तरशतपारायणपूर्वकं कथायात्रायाः प्रारम्भमभूत् । तदा स्वयं कार्ष्णिपादैरक्तं यदियं कथा प्रथमेति न प्रतिभाति ।  तदनन्तरं पितामहगुरो राज्ञामनुसृत्य वृदावने सुप्रसिद्धस्य हरिबाबासन्तस्य बाधधाम्नि तीर्थे ,पूज्याया मातुरान्नन्दमय्या आध्यात्मिकसाधनस्थले कनरवलाश्रमे ,मैत्र्यग्रजायाः समक्षं वाणीपुष्पैः श्रीमद्भगवती कथा समर्पिता।   ख्रीष्टाब्दे २००५ तमे 
“भागवत सेवा संस्था”
नाम्नैको न्यासो गठितः ।  यस्यान्तर्गतं शिक्षाक्षेत्रे ख्रीष्टाब्दात् १९६४तो ध्यापनरतस्य
“श्रीमद्भागवतविद्यालयेन”
परिचालनं स्वायत्तीकृतम् । अनेन सह 
“वैदिक यात्रा गुरुकुल”
नाम्नः शिक्षापद्धतिरारब्धा यत्र वेदानां , वैदाङ्गानां ,कर्मकाण्डस्य ,ज्योतिषस्य ,व्याकरणस्य ,दर्शनशास्त्रास्य ,संगीतस्य आङ्गलभाषायाः ,संगणकस्य च सप्तवर्षीया शिक्षा दीयते । 

Vaidik Yatra

भवतां भावगाम्भीर्यपूर्णकथाशैली ह्रदयस्पर्शिणी विद्यते,यस्यां करुणायाः प्रवाहोस्ति ।  न च तत्र शब्दाडम्बरम् ।  भवतां कथासु न केवलं श्रोतारो सगद्गदं रुदन्ति प्रत्युतः स्वयं वक्तापि भावविह्वलो भूत्वाश्रुपातैराप्लावितो भवति ।  कथावाचनसमये भवतां दशां विलोक्य सन्तप्रवराः श्रीमन्तो डोंगरेजी महाभागाः स्मृतिपथमायान्ति ।  स्व. हरिवंशरायबच्चनस्य कविताभिः ,मैथिलशरणगुप्तस्य पंक्तिभिरथवा सरलतमैरुदाहणैर्वा दुरुहातिदुरूहस्य शास्त्रीयभावस्य व्याख्यां कृत्वा शास्त्रीयभावं श्रोतृणां हृदयपले प्रवेशयन्ति । 

भागवतकिङ्करस्यानुरागकृष्णशास्त्रिणः कथायत्रा :-

Vaidik Yatra

भवान् भारतस्यानेकेषु तीर्थस्थलेषु स्वकीयां वाणीं पवित्रयितुमवसरं प्राप्तवान् ।  भवता हरिद्वारे ,जगन्नाथपुर्यां ,उज्जयिन्यां ,काश्यां ,बदरीविशाले , रामेश्वरे ,वृन्दावन अन्येष्वपि तीर्थस्थले स्वकीयं करुणामयं भावं वाणीमाध्येन गतिशीलं विहितम् ।  न केवलं पवित्रतमे भारतवर्षे प्रत्युतः सिंगापुरे,मलेशियायां ,इन्डोनेशियायां ,थाईलेण्डे , योरोपे ,पैरिसनगरे ,मारिशसनगर ,आष्ट्रेलियायामन्येष्वप्यनेकक्षेत्रेषु भवता सनातनधर्मध्वजोत्तोलिता ।  भवता श्रीमद्भागवतमहापुराण – रामचरितमानस -शिवपुराण – देवीभागवत -हनुमत्कथा -मीराचरित-नारदभक्तिसूत्रादिविषयेषु चर्चां कृत्वा स्वकीयां वाणीं पवित्रयता जनमनस्सु भक्त्याः प्रकाशो विहितः ।  तटस्थजनेभ्यो मया श्रुतं यद् धर्मपरायणेभ्यः , समाजसेवीसंस्थाभ्यः गोशालाभ्यः , मानवसेवारताभ्यः संस्थाभ्यो भवान् स्वकीयां मूल दक्षिनामपि न ह्णाति अद्भुतोऽनुकरणीयश्चायं भवद्व्यवहारः ।  अतोऽस्योल्लेखनमुचितं मत्वा मयोल्लेखितः कथा -प्रचलन -माध्यमेन भगवच्चरणार्विन्दयोः सर्वात्समर्पणस्य भावं निरन्तरं प्रवाहयति ।  भवतो जीवनं भगवति समर्पिता प्रेमय्येका यात्रास्ति ।  भवान् सर्वान् श्रोतृवर्गांश्च तस्यां यात्रायां समायोजनस्यावसरमवश्यं ददाति ।