के नाम नवग्रहाः ?

प्रणिमात्रस्योपरि ग्रहणां स्वकीयो विशिष्टः प्रभावो भवति ।" गृह्णाति फ़लदातृत्वेन जीवानिति ग्रहः "

लोकाभिरामं रणरंगधीरं राजीवनेत्रं रघुवंशनाथम् ।
कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये ॥

Lōkābhirāmaṁ raṇaraṅgadhīraṁ rājīvanētraṁ raghuvanśanātham.
Kāruṇyarūpaṁ karuṇākaraṁ taṁ śrīrāmacandraṁ śaraṇaṁ prapadyē.

https://www.vaidikyatra.org/wp-content/uploads/2019/05/9-Grah.jpg

ज्योतिषशास्त्रानुसारेण ग्रहाणां दशा, ग्रहाणां गतयश्च जातकं प्रभावयन्ति । जातककुण्डल्यां नवानां ग्रहाणां दशाया वर्णनं भवति । अस्माकं सौरमण्डले सूर्य – चन्द्र- मङ्गल – बुध -गुरु -शुक्र -शनि -राहु -केतुसंज्ञका नवग्रहाः प्रोक्ताः । वैज्ञानिका राहुं केतुं च ग्रहरूपेण न स्वीकुर्वन्ति, परंज्योतिषशास्त्रमुभौ प्रभावशालिनौ ग्रहाविति स्वीकरोति । एतेषां नवग्रहाणां पूजना द्वाञ्छितं फ़लं प्राप्तुं शक्यते । अस्माकं जीवने यच्छुभमशुभं वा घटते तत्सर्वं ग्रह गतिना एव सम्पद्यते । कुध्रान् प्रतिकूलान् वा ग्रहाननुकूलयितुं नवग्राणां पूजायाः प्रथक् प्रथक् विधानमस्ति । मन्त्रोच्चारणमाध्यमेन जपमाध्यमेन च ग्रहाः साध्यन्ते ।

 

नवग्रहग्रहाणां प्रभावः

जीवनस्य सुखदुःखे, हानिलाभौ, जयपराजयौ च नवग्रहाणां दशासु गतिषु चाधरितौ । कारणमस्ति ग्रहाः २७ नक्षत्रेषु १२ राशिषु सततं भ्रमन्ति । अस्मादेव हेतोः वर्षाणि, षड्ऋतवः द्वादशमासाः दिनानि च भवन्ति । ग्रहेष्वनुकूलेषु सुखं, प्रतिकूलेषु दुःखं लभ्यते ।
प्रतिकूलतायामनुकूलतायाञ्च ग्रहाः अस्मान् सावधानान् कुर्वन्ति । प्रतिकूला ग्रहा अशुभस्य, अनुकूलाश्च शुभस्य सूचका भवन्ति । प्रतिकूलग्रहस्य दशायामन्तर्दशायाञ्च तस्य ग्रहस्य कुप्रभावादात्मानं रक्षणीयम् । तदर्थञ्च शास्त्रोक्तविधानानुसारं स्वयमुपायो विधेयो योग्यब्राह्मणैर्वा सम्पादयितव्यः । अनुकूलतायामेते लाभं प्रदाष्यन्ति । तत्र च कतमो ग्रहः कस्मिन्नंशे विद्यत इति ध्यानं देयम् । कश्चिदनुकूलो ग्रहो न्युन्यांशेSस्ति चेत्तस्य प्रभावं वर्धयितुं प्रतिकूलग्रहस्य प्रभावं न्यूनीकर्तुमुपायो विधेयः । ग्रहेषु च केचन पापग्रहाः केचन पुण्यग्रहाश्च सन्ति ।

 

नवग्रहानुकूलोपायाः

शुभ्रग्रहस्यांशे न्युनीभूते तस्य ग्रहस्य बलं बर्धयितुं निर्धारितरत्नादिषु धारितेषु विशिष्टं फ़लं दाष्यन्ति । पापग्रहान् शान्तयितुं तेषां जप एव श्रेष्ठ उपायो निर्धारितः । जपेषु च तान्त्रिक- वैदिकमिश्रिता मन्त्राश्च शास्त्रेषूपलभ्यन्ते येषां प्रयोगेण विशेषः,विशेषतरः,विशेषतमो लाभः प्राप्यते । शास्त्रेष्वेतादृशा अनेके प्रयोगाः समुपलभयन्ते । येषां प्रयोगेण शुभानामशुभानां ग्रहदशानां प्रभावं न्यूनमधिकञ्च कर्तुं शक्यते ।

नवग्रहपूजायै भवान् वैदिकयात्रागुरुकुलपरिवारे सम्पर्कं कर्तुं शक्नोति । अत्रत्यपूजापद्धतौ शास्त्रोक्तमर्यादामनुसृज्य यथाविधि कर्म कार्यते येन कल्याणकरफ़लप्राप्तिर्भवति ।

 

नवीनतम वीडियो

अग्रिम आरक्षण

पूजा एवं कथा की अग्रिम आरक्षण करने तथा कल्याणकारी सेवा प्रकल्पों में सहभाग्यता हेतु संपर्क करें ।

    Vaidik Sutra