परिणायोत्सव

षोडशसस्काराणां मध्ये विवाहः, आश्रमाणां मध्ये गृहस्थाश्रमः, यत्र नवजीवनारम्भःक्रियते, यस्मिन् दायित्वस्य वृद्धिर्जायते । अत एवायं दिवस उद्वाहपर्वत्वेन परिणयपर्वत्वेन च परिगण्यते

परिणायोत्सव पर्व यूँ, "अनुराग" से ऐसे मनाओ ।
अपनी सनातन संस्कृति को, “श्रीश” खोने से बचाओ ॥

https://www.vaidikyatra.org/wp-content/uploads/2019/06/happy-anniversary.jpg

वस्तुतो द्वयोः परिवारयो, द्वयोर्विचारयोः, द्वयोरात्मनोर्मिलनमेव विवाहोSस्ति । उभयोः प्रेम्ण आदरभावनायाश्च सम्मानं कुर्वन्निन्द्रियवर्गमसन्मार्गादवरोधयन्, उभयकुलगौरवं रक्षन् वंशवृद्धिकरणमेव सद्गृहस्थस्य कर्तव्यमस्ति । तथा च स्वयं धर्ममार्गमनुसरन् स्वसन्ततिमपि धर्ममार्गानुसरणाय प्रेरणञ्च सद्गृहस्थस्य कर्तव्यमस्ति । तदेव दम्पत्योर्जीवनस्य कषणोपलो यस्य परिणामो गार्हस्थस्य परमानन्दः । अतो विवाहोत्सवस्य प्रतिवार्षिके मङ्गलपर्वणि स्वास्थ्यस्य, सफ़लतायाः, यशसः कामनया आगच्छन्तु, एतादृशं किमपि कथं न स्याद्येन स्वकीयः परिणयोत्सवः स्मरणीयः स्यात्, जीवनञ्च संस्कारवान् स्यात्, संस्कारेषु दृढता भवेत् ।
वैदिकयात्रागुरुकुलस्य परिवारः वृन्दावनधाम्नस्तत्वावधाने भवतो, भवन्तः स्वजनस्य च परिणयोत्सव आयुर्नैरुज्य प्राप्तये, व्यापार वृद्धये, गृहे सुख -शान्ति -समृध्यर्थं वैदिकयात्रागुरुकुलस्यैकादशब्रह्मचारिणः ऋषिकुमाराः विष्णुसहस्रनाम्नः २१ आवृत्तिं , नारायणकवचस्य २१ आवृत्तिं, रामरक्षास्तोत्रस्य २१ आवृत्तिं, हनुमच्चालिसायाः १११ आवृत्तिं, संकटमोचनस्य ११ आवृत्तिं, सम्यक्तया समवेत स्वरेणकुर्वन्ति । पाठध्वनिना सह निर्गतेन ध्वनितरङ्गेण भवतां प्रणामाञ्जलयः श्रीबाकेविहारिणाश्चरणकमलयोः प्राप्ष्यन्ति । कृतस्य पाठस्य छायाचित्राणि भवतां दूरवाण्यां ( मोबाइल ) इमेले प्रेषयिष्यन्ते । यस्मिन् ऋषिकुमाराणां मन्त्रोच्चारणेन सह प्रदत्ता आशीर्वादाश्च दृष्यन्ते । एवमस्य विवाहदिवसस्य पौराणिकं सांस्कृतिकञ्च महत्वमनुभूय गोरक्षाभावनया सह स्वशक्तिमिच्छाञ्चानुसृत्य व्रजक्षेत्रे गोमातृणां सेवां चावश्यं कुर्वन्तु । आगच्छन्तु स्वकीयां संस्कृतिसंस्काराञ्च रक्षन्तु । तथा च स्वकीयामागामिनीं संततिं स्वसम्पदा सह संस्कृतेश्चोत्तराधिकारिणीं निर्मापयन्तु ।
प्रचीनाभिरार्षपरम्पराभिः परिणयोत्सवस्य योजनं कुर्वन्तु ।

 

 

 

 

 

 परिणयोत्सवपाठार्थं राशिः रु ३१००/- रू.

पाठेन सह गुरुकुलस्य ऋषिकुमारेभ्यो मिष्ठान्नसेवायै गोभ्यः गुडसेवायै राशिः रु ५१००/- रुप्यकाण्ये

 

पूजनपाठैः सह गुरुकुले सर्वेषां कृते प्रसादाय गोसेवायै च सेवाराशिः ११०००/- रुप्यकाण्येव 

 

पूजनपाठैः सह गुरुकुले सर्वेषां कृते महाप्रसादाय गोसेवायै च सेवाराशिः २१०००/- रुप्यकाण्येव

 

नवीनतम वीडियो

अग्रिम आरक्षण

पूजा एवं कथा की अग्रिम आरक्षण करने तथा कल्याणकारी सेवा प्रकल्पों में सहभाग्यता हेतु संपर्क करें ।

    Vaidik Sutra