शिवमहापुराणम्

शिवपुराणे भगवतः साम्बसदाशिवस्यानुपमाया, दिव्यतमाया अद्भुतकथायाश्चर्चा विद्यते । कथेयं भगवतः शिवस्य मुखान्निर्गतास्ति । परमवैष्णवस्य सदाशिवस्येयं कथा शैवानाङ्कण्ठहारसमास्ति ।

हस्तेक्षमाला हृदि कृष्ण तत्त्वं जिह्वाग्रभागे वर कृष्ण मन्त्रम्।
यन्मस्तके केशवपादतीर्थं ।
शिवं महाभागवतं नमामि ॥

hastekṣamālā hṛdi kṛṣṇa tattvaṃ jihvāgrabhāge vara kṛṣṇa mantram ।
yanmastake keśavapādatīrthaṃ ।
śivaṃ mahābhāgavataṃ namāmi ॥

https://www.vaidikyatra.org/wp-content/uploads/2019/04/shiv_maha_puran_img.jpg

अस्मिन् पुराणे शिवभक्त्याः शिवमहिम्नश्च दिव्यं वर्णनमस्ति । ग्रन्थोSयं ज्ञानभक्तिभ्यां सह विशिष्टकर्मप्रधानोSस्ति । प्रायेण सर्वेषु पुराणेषु शिवः त्यागस्य,तपस्याया, वात्सल्यस्य, करुणायाश्च मूर्तिरूपेण वर्णितः । अस्मिन् पुराणे प्रकृतेरन्तः विद्यमानां शिवस्याष्टमूर्तीनां वर्णनं कृतम् । अत्र रुद्राक्षस्य, विल्वपत्रस्य, मासादिनाञ्चाद्भुतं महिमानं प्रकटितम् । शिव पुराणे दिनस्य मसादिनाञ्चोत्पतिः सम्यक्तयोपवर्णिता ।

ज्योतिर्लिङ्गमयः सदाशिवोSजन्माजरोSमरश्चास्ति जगदिदं प्रकृतिपुरुषाभ्यां शिवशक्तिभ्यां सञ्चालितं भवति। अतोSत्र न केवलं शिवस्य प्रत्युतः शक्त्या श्चाद्भुतो महिमा वर्णितः । द्वादशज्योतिर्लिङ्गानां महिम्ना सह शिवभक्तानाञ्च महिमात्र विद्यते ।

 

शिवपुराणमस्मान् किं शिक्षयति ?

शिवोपासनया मनुष्यो जन्म -मरण -बन्धनान्मुच्यते , शिवस्य परमं धामः प्राप्नोति| शिवगणतां याति । किं बहुना शिवभक्तः शिवस्वरूपो भवति ।

अस्मिन् पुराणे चतुर्विंशतिसहस्रं २४००० श्लोकाः सन्ति । एताः संहिताः सन्ति –विद्येश्वरसंहिता, शतरुद्र-संहिता, कोटिरुद्र -संहिता, उमासंहिताम ,कैलाश -संहिता, वायवीय -संहिताचेति ।

 

कथानवान्हक्रमः

नवीनतम वीडियो

अग्रिम आरक्षण

पूजा एवं कथा की अग्रिम आरक्षण करने तथा कल्याणकारी सेवा प्रकल्पों में सहभाग्यता हेतु संपर्क करें ।

    Vaidik Sutra