श्रीदेवी भागवत

शक्तिरेव जगतः सृजनं पालनं संहारञ्च करोति । ब्रह्मा-विष्णु-रुद्राः शक्तिसहाय्येनेव सृष्टिस्थितिसंहारान् कुर्वन्ति । शक्या अनेकानि रूपाणि सन्ति-माता भगिनी पत्नीचेति । देवीभागवते शक्त्या अद्भुतं महत्वमुपवर्णितम् । अनेकाषां शक्तिपीठानाञ्च वर्ननमत्र प्राप्यते ।

अष्टादशपुराणेषु व्यासस्य वचनद्धयम् ।
पपरोपकारः पुण्याय पापाय परपीड़नम् ।।

Ashtaadashapuraaneshu vyaasasy chhadmyam |
Paparopakaar: puny paapaay parapeedanam ||

https://www.vaidikyatra.org/wp-content/uploads/2019/04/shridevi-bhagvat-img.jpg

अस्मिन् द्वादशस्कन्धा अष्टादशोत्तरत्रिशतमध्यायाः सन्ति । दुर्गारूपेण शक्तिः कथं प्रादुर्भूता, केषु केषु च रूपेषु, किं किं कार्यं साधयितुं प्रकटितेत्यत्र वर्णितम् । नवरात्रवर्णनेन सह श्रीकृष्णस्य दिव्यतायाश्चात्र वर्णनं कृतम् ।

देव्युपासकाः शाक्तपदवाच्या भवन्ति । ग्रन्थोयं शाक्तानां कण्ठहारसमः ।

ब्रह्मा विष्णुरुद्राः भक्तपरीक्षायै कस्यापि गृहद्वारे भिक्षार्थं गता एव । परं पराम्बा भगवती भिक्षार्थं कुत्रापि न गता आद्यः शङ्कराचार्यः शक्त्याः खण्डनं कर्तुमैच्छत् । तदा पराम्बा तं शक्त्याः महत्वं कथितवती । तदनन्तरमेव शङ्कराचार्यःक्षमापराधस्तोत्रमाध्यमेन शक्तिमाराधयामास।

अस्मिन् दिव्ये पुराणे शक्त्या वैशिष्ट्यं भक्तकार्यसिद्धये विभिन्नानां स्तोत्राणां, कवचानां, मन्त्रतन्त्रानाञ्च वर्णनमस्ति । देवी भागवस्य नवदिवसीयकथायाः प्रचलनमस्ति ।

 

अग्रिम आरक्षण

पूजा एवं कथा की अग्रिम आरक्षण करने तथा कल्याणकारी सेवा प्रकल्पों में सहभाग्यता हेतु संपर्क करें ।

    Vaidik Sutra